Sukta 7.28
तव प्रणीतीन्द्र जोहुवानान्त्सं यन्नॄन्न रोदसी निनेथ । महे क्षत्राय शवसे हि जज्ञेऽतूतुजिं चित्तूतुजिरशिश्नत् ॥
तव॒ प्रणी॑तीन्द्र॒ जोहु॑वाना॒न्त्सं यन्नॄन्न रोद॑सी नि॒नेथ॑ । म॒हे क्ष॒त्राय॒ शव॑से॒ हि ज॒ज्ञेऽतू॑तुजिं चि॒त्तूतु॑जिरशिश्नत् ॥
tavá praṇī́tīndra jóhuvānāntsáṃ yán nṝ́n ná rodasī́ ninétha | mahé kṣatrā́ya śávase hí jajñé atū́tujim cit tū́tujiḥ aśiśnat ||
By your leading, O Indra, those who call intensely you gather together, as if you draw the human seekers into the two worlds. For your vast sovereignty and force you were born; even the un-impelled you set into motion—you, the impeller, drive them onward.
तव॑ । प्रऽनी॑ती । इ॒न्द्र॒ । जोहु॑वानान् । सम् । यत् । नॄन् । न । रोद॑सी॒ इति॑ । नि॒नेथ॑ । म॒हे । क्ष॒त्राय॑ । शव॑से । हि । ज॒ज्ञे । अतू॑तुजिम् । चि॒त् । तूतु॑जिः । अ॒शि॒श्न॒त् ॥तव । प्रनीती । इन्द्र । जोहुवानान् । सम् । यत् । नॄन् । न । रोदसी इति । निनेथ । महे । क्षत्राय । शवसे । हि । जज्ञे । अतूतुजिम् । चित् । तूतुजिः । अशिश्नत् ॥tava | pra-nītī | indra | johuvānān | sam | yat | nṝn | na | rodasī iti | ninetha | mahe | kṣatrāya | śavase | hi | jajñe | atūtujim | cit | tūtujiḥ | aśiśnat