Sukta 7.28
हवं त इन्द्र महिमा व्यानड्ब्रह्म यत्पासि शवसिन्नृषीणाम् । आ यद्वज्रं दधिषे हस्त उग्र घोरः सन्क्रत्वा जनिष्ठा अषाळ्हः ॥
हवं॑ त इन्द्र महि॒मा व्या॑न॒ड्ब्रह्म॒ यत्पासि॑ शवसि॒न्नृषी॑णाम् । आ यद्वज्रं॑ दधि॒षे हस्त॑ उग्र घो॒रः सन्क्रत्वा॑ जनिष्ठा॒ अषा॑ळ्हः ॥
haváṃ ta indra mahimā́ vyā́naḍ bráhma yát pā́si śavasinn ṛ́ṣīṇām | ā́ yád vájraṃ dadhíṣe hásta ugra ghoráḥ sán kratvā́ janiṣṭhāḥ áṣāḷhaḥ ||
The call to you, O Indra, has spread your greatness—this brahman which you protect by your force among the seers. When you set the thunderbolt in your hand, fierce and formidable, you are born by will as the unconquered power.
हव॑म् । ते॒ । इ॒न्द्र॒ । म॒हि॒मा । वि । आ॒न॒ट् । ब्रह्म॑ । यत् । पासि॑ । श॒व॒सि॒न् । ऋषी॑णाम् । आ । यत् । वज्र॑म् । द॒धि॒षे । हस्ते॑ । उ॒ग्र॒ । घो॒रः । सन् । क्रत्वा॑ । ज॒नि॒ष्ठाः॒ । अषा॑ळ्हः ॥हवम् । ते । इन्द्र । महिमा । वि । आनट् । ब्रह्म । यत् । पासि । शवसिन् । ऋषीणाम् । आ । यत् । वज्रम् । दधिषे । हस्ते । उग्र । घोरः । सन् । क्रत्वा । जनिष्ठाः । अषाळ्हः ॥havam | te | indra | mahimā | vi | ānaṭ | brahma | yat | pāsi | śavasin | ṛṣīṇām | ā | yat | vajram | dadhiṣe | haste | ugra | ghoraḥ | san | kratvā | janiṣṭhāḥ | aṣāḷhaḥ