Sukta 7.28
एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि क्षितयः पवन्ते । प्रति यच्चष्टे अनृतमनेना अव द्विता वरुणो मायी नः सात् ॥
ए॒भिर्न॑ इ॒न्द्राह॑भिर्दशस्य दुर्मि॒त्रासो॒ हि क्षि॒तय॒: पव॑न्ते । प्रति॒ यच्चष्टे॒ अनृ॑तमने॒ना अव॑ द्वि॒ता वरु॑णो मा॒यी न॑: सात् ॥
ebhír na indrā́habhir daśasya durmitrā́so hí kṣitáyaḥ pávante | práti yác caṣṭé anṛ́tam anenā́ áva dvitā́ váruṇo māyī́ naḥ sāt ||
By these days (and works) with Indra, make us capable, for hostile friendships and human factions flow against us. When untruth is proclaimed in reply by those without the right way, may Varuṇa, the wise wielder of inner law, protect us doubly.
ए॒भिः । नः॒ । इ॒न्द्र॒ । अह॑ऽभिः । द॒श॒स्य॒ । दुः॒ऽमि॒त्रासः॑ । हि । क्षि॒तयः॑ । पव॑न्ते । प्रति॑ । यत् । च॒ष्टे॒ । अनृ॑तम् । अ॒ने॒नाः । अव॑ । द्वि॒ता । वरु॑णः । मा॒यी । नः॒ । सा॒त् ॥एभिः । नः । इन्द्र । अहभिः । दशस्य । दुःमित्रासः । हि । क्षितयः । पवन्ते । प्रति । यत् । चष्टे । अनृतम् । अनेनाः । अव । द्विता । वरुणः । मायी । नः । सात् ॥ebhiḥ | naḥ | indra | aha-bhiḥ | daśasya | duḥ-mitrāsaḥ | hi | kṣitayaḥ | pavante | prati | yat | caṣṭe | anṛtam | anenāḥ | ava | dvitā | varuṇaḥ | māyī | naḥ | sāt