Sukta 7.28
ब्रह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः । विश्वे चिद्धि त्वा विहवन्त मर्ता अस्माकमिच्छृणुहि विश्वमिन्व ॥
ब्रह्मा॑ ण इ॒न्द्रोप॑ याहि वि॒द्वान॒र्वाञ्च॑स्ते॒ हर॑यः सन्तु यु॒क्ताः । विश्वे॑ चि॒द्धि त्वा॑ वि॒हव॑न्त॒ मर्ता॑ अ॒स्माक॒मिच्छृ॑णुहि विश्वमिन्व ॥
brahmā́ ṇa indròpa yāhi vidvā́n arvā́ñcas te hárayaḥ santu yuktā́ḥ | víśve ciddhí tvā vihávanta mártā asmā́kam íc chṛṇuhi viśvam-inva ||
O Indra, come near to our formative word (brahman), you who know; let your tawny powers be yoked and turned toward us. For all mortals indeed call you; yet hear especially our call, O mover of the whole being.
ब्रह्मा॑ । नः॒ । इ॒न्द्र॒ । उप॑ । या॒हि॒ । वि॒द्वान् । अ॒र्वाञ्चः॑ । ते॒ । हर॑यः । स॒न्तु॒ । यु॒क्ताः । विश्वे॑ । चि॒त् । हि । त्वा॒ । वि॒ऽहव॑न्त । मर्ताः॑ । अ॒स्माक॑म् । इत् । शृ॒णु॒हि॒ । वि॒श्व॒म्ऽइ॒न्व॒ ॥ब्रह्मा । नः । इन्द्र । उप । याहि । विद्वान् । अर्वाञ्चः । ते । हरयः । सन्तु । युक्ताः । विश्वे । चित् । हि । त्वा । विहवन्त । मर्ताः । अस्माकम् । इत् । शृणुहि । विश्वम्इन्व ॥brahmā | naḥ | indra | upa | yāhi | vidvān | arvāñcaḥ | te | harayaḥ | santu | yuktāḥ | viśve | cit | hi | tvā | vi-havanta | martāḥ | asmākam | it | śṛṇuhi | viśvam-inva