Sukta 7.27
नू चिन्न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती । अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः ॥
नू चि॑न्न॒ इन्द्रो॑ म॒घवा॒ सहू॑ती दा॒नो वाजं॒ नि य॑मते न ऊ॒ती । अनू॑ना॒ यस्य॒ दक्षि॑णा पी॒पाय॑ वा॒मं नृभ्यो॑ अ॒भिवी॑ता॒ सखि॑भ्यः ॥
nū́ cín na índro maghávā sahū́tī dā́no vā́jaṁ ní yamate na ūtī́ | anū́nā yásya dákṣiṇā pīpā́ya vā́maṁ nṛ́-bhyo abhí-vītā sákhī-bhyaḥ ||
Even now Indra the bounteous, in our joint calling, restrains and holds the plenitude of force for our help. Unfailing is his dakṣiṇā; it swells and increases—bringing what is desirable to men, to the comrades who seek.
नु । चि॒त् । नः॒ । इन्द्रः॑ । म॒घऽवा॑ । सऽहू॑ती । दा॒नः । वाज॑म् । नि । य॒म॒ते॒ । नः॒ । ऊ॒ती । अनू॑ना । यस्य॑ । दक्षि॑णा । पी॒पाय॑ । वा॒मम् । नृऽभ्यः॑ । अ॒भिऽवी॑ता । सखि॑ऽभ्यः ॥नु । चित् । नः । इन्द्रः । मघवा । सहूती । दानः । वाजम् । नि । यमते । नः । ऊती । अनूना । यस्य । दक्षिणा । पीपाय । वामम् । नृभ्यः । अभिवीता । सखिभ्यः ॥nu | cit | naḥ | indraḥ | magha-vā | sa-hūtī | dānaḥ | vājam | ni | yamate | naḥ | ūtī | anūnā | yasya | dakṣiṇā | pīpāya | vāmam | nṛ-bhyaḥ | abhi-vītā | sakhi-bhyaḥ