Sukta 7.27
नू इन्द्र राये वरिवस्कृधी न आ ते मनो ववृत्याम मघाय । गोमदश्वावद्रथवद्व्यन्तो यूयं पात स्वस्तिभिः सदा नः ॥
नू इ॑न्द्र रा॒ये वरि॑वस्कृधी न॒ आ ते॒ मनो॑ ववृत्याम म॒घाय॑ । गोम॒दश्वा॑व॒द्रथ॑व॒द्व्यन्तो॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
nū índra rāyé várivaskṛdhī na ā́ te máno vavṛtyāma maghā́ya | gómad áśvāvad ráthavad vyàntaḥ yūyám pāta svastí-bhiḥ sádā naḥ ||
Now, O Indra, create for us a wide and free space for the soul’s increase; may our mind turn wholly toward you, O bountiful giver. Granting the plenitude of illumined rays (cows), the energies of movement (horses), and the victorious means of advance (chariots), may you—powers of delight—guard us always with your harmonies of well-being.
नु । इ॒न्द्र॒ । रा॒ये । वरि॑वः । कृ॒धि॒ । नः॒ । आ । ते॒ । मनः॑ । व॒वृ॒त्या॒म॒ । म॒घाय॑ । गोऽम॑त् । अश्व॑ऽवत् । रथ॑ऽवत् । व्यन्तः॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥नु । इन्द्र । राये । वरिवः । कृधि । नः । आ । ते । मनः । ववृत्याम । मघाय । गोमत् । अश्ववत् । रथवत् । व्यन्तः । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥nu | indra | rāye | varivaḥ | kṛdhi | naḥ | ā | te | manaḥ | vavṛtyāma | maghāya | go--mat | aśva-vat | ratha-vat | vyantaḥ | yūyam | pāta | svasti-bhiḥ | sadā | naḥ