Sukta 7.27
य इन्द्र शुष्मो मघवन्ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः । त्वं हि दृळ्हा मघवन्विचेता अपा वृधि परिवृतं न राधः ॥
य इ॑न्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॒ शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्य॑: । त्वं हि दृ॒ळ्हा म॑घव॒न्विचे॑ता॒ अपा॑ वृधि॒ परि॑वृतं॒ न राध॑: ॥
yá índra śúṣmo maghavante ásti śíkṣā sákhī-bhyaḥ puru-hūta nṛ́-bhyaḥ | tváṁ hí dṛḷhā́ maghavan ví-cetā ápa vṛdhi pári-vṛtaṁ ná rā́dhaḥ ||
O Indra, the impetuous force that is yours, O bounteous one—teach it to our comrades, to the human energies that call you much. For you are firm, O Maghavan, wide in discernment; increase and bring out the wealth that is as if shut in and encircled.
यः । इ॒न्द्र॒ । शुष्मः॑ । म॒घ॒ऽव॒न् । ते॒ । अस्ति॑ । शिक्ष॑ । सखि॑ऽभ्यः । पु॒रु॒ऽहू॒त॒ । नृऽभ्यः॑ । त्वम् । हि । दृ॒ळ्हा । म॒घ॒ऽव॒न् । विऽचे॑ताः । अप॑ । वृ॒धि॒ । परि॑ऽवृतम् । न । राधः॑ ॥यः । इन्द्र । शुष्मः । मघवन् । ते । अस्ति । शिक्ष । सखिभ्यः । पुरुहूत । नृभ्यः । त्वम् । हि । दृळ्हा । मघवन् । विचेताः । अप । वृधि । परिवृतम् । न । राधः ॥yaḥ | indra | śuṣmaḥ | magha-van | te | asti | śikṣa | sakhi-bhyaḥ | puru-hūta | nṛ-bhyaḥ | tvam | hi | dṛḷhā | magha-van | vi-cetāḥ | apa | vṛdhi | pari-vṛtam | na | rādhaḥ