Sukta 7.27
इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः । शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः ॥
इन्द्रं॒ नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः । शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं न॑: ॥
índraṁ náro némadhitā havante yát pā́ryā yunájate dhíyas tā́ḥ | śū́ro nṛ-sā́tā śávasaś cakāná ā́ gó-mati vrajé bhajā tváṁ naḥ ||
Men call Indra, laying the foundation, when they yoke their thoughts to the farther goal. O hero, winner of men, rejoicing in force—share with us in the cow-rich pen, the luminous herds of knowledge.
इन्द्र॑म् । नरः॑ । ने॒मऽधि॑ता । ह॒व॒न्ते॒ । यत् । पार्याः॑ । यु॒नज॑ते । धियः॑ । ताः । शूरः॑ । नृऽसा॑ता । शव॑सः । च॒का॒नः । आ । गोम॑ति । व्र॒जे । भ॒ज॒ । त्वम् । नः॒ ॥इन्द्रम् । नरः । नेमधिता । हवन्ते । यत् । पार्याः । युनजते । धियः । ताः । शूरः । नृसाता । शवसः । चकानः । आ । गोमति । व्रजे । भज । त्वम् । नः ॥indram | naraḥ | nema-dhitā | havante | yat | pāryāḥ | yunajate | dhiyaḥ | tāḥ | śūraḥ | nṛ-sātā | śavasaḥ | cakānaḥ | ā | gomati | vraje | bhaja | tvam | naḥ