Sukta 7.26
चकार ता कृणवन्नूनमन्या यानि ब्रुवन्ति वेधसः सुतेषु । जनीरिव पतिरेकः समानो नि मामृजे पुर इन्द्रः सु सर्वाः ॥
च॒कार॒ ता कृ॒णव॑न्नू॒नम॒न्या यानि॑ ब्रु॒वन्ति॑ वे॒धस॑: सु॒तेषु॑ । जनी॑रिव॒ पति॒रेक॑: समा॒नो नि मा॑मृजे॒ पुर॒ इन्द्र॒: सु सर्वा॑: ॥
cakā́ra tā́ kṛṇávannūnám anyā́ yā́ni bruvánti vedhásaḥ sutéṣu | janī́r iva pátir ékaḥ samānáḥ ní māmṛje púra índraḥ sú sárvāḥ ||
He has done those things; he will do even now the other things the inspired seers speak of in the pressed Soma. Like one husband among wives, the same single Lord, Indra, has wiped away and broken down all the enclosing fronts.
च॒कार॑ । ता । कृ॒णव॑त् । नू॒नम् । अ॒न्या । यानि॑ । ब्रु॒वन्ति॑ । वे॒धसः॑ । सु॒तेषु॑ । जनीः॑ऽइव । पतिः॑ । एकः॑ । स॒मा॒नः । नि । म॒मृ॒जे॒ । पुरः॑ । इन्द्रः॑ । सु । सर्वाः॑ ॥चकार । ता । कृणवत् । नूनम् । अन्या । यानि । ब्रुवन्ति । वेधसः । सुतेषु । जनीःइव । पतिः । एकः । समानः । नि । ममृजे । पुरः । इन्द्रः । सु । सर्वाः ॥cakāra | tā | kṛṇavat | nūnam | anyā | yāni | bruvanti | vedhasaḥ | suteṣu | janīḥ-iva | patiḥ | ekaḥ | samānaḥ | ni | mamṛje | puraḥ | indraḥ | su | sarvāḥ