Sukta 7.26
उक्थौक्थे सोम इन्द्रं ममाद नीथेनीथे मघवानं सुतासः । यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥
उ॒क्थौ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद नी॒थेनी॑थे म॒घवा॑नं सु॒तास॑: । यदीं॑ स॒बाध॑: पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हव॑न्ते ॥
ukthá-ukthe sóma índraṁ mamāda nī́the-nī́the maghávānaṁ sutā́saḥ | yad ī́ṁ sa-bā́dhaḥ pitáraṁ ná putrā́ḥ samāná-dakṣā́ aváse hávante ||
With hymn after hymn Soma gladdens Indra; in rite after rite the pressed offerings delight the bounteous one—when, pressing close together, like sons their father, equal in will and capacity, they call him for help.
उक्थेऽउ॑क्थे । सोमः॑ । इन्द्र॑म् । म॒मा॒द॒ । नी॒थेऽनी॑थे । म॒घऽवा॑नम् । सु॒तासः॑ । यत् । ई॒म् । स॒ऽबाधः॑ । पि॒तर॑म् । न । पु॒त्राः । स॒मा॒नऽद॑क्षाः । अव॑से । हव॑न्ते ॥उक्थेउक्थे । सोमः । इन्द्रम् । ममाद । नीथेनीथे । मघवानम् । सुतासः । यत् । ईम् । सबाधः । पितरम् । न । पुत्राः । समानदक्षाः । अवसे । हवन्ते ॥ukthe--ukthe | somaḥ | indram | mamāda | nīthe--nīthe | magha-vānam | sutāsaḥ | yat | īm | sa-bādhaḥ | pitaram | na | putrāḥ | samāna-dakṣāḥ | avase | havante