Sukta 7.26
न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः । तस्मा उक्थं जनये यज्जुजोषन्नृवन्नवीयः शृणवद्यथा नः ॥
न सोम॒ इन्द्र॒मसु॑तो ममाद॒ नाब्र॑ह्माणो म॒घवा॑नं सु॒तास॑: । तस्मा॑ उ॒क्थं ज॑नये॒ यज्जुजो॑षन्नृ॒वन्नवी॑यः शृ॒णव॒द्यथा॑ नः ॥
ná sóma índram ásuto mamāda ná ā́-brahmāṇo maghávānaṁ sutā́saḥ | tásmai uktháṁ janaye yáj jujoṣan nṛ-ván navī́yaḥ śṛṇavád yáthā naḥ ||
Not the unpressed Soma gladdens Indra, nor do libations without the forming word satisfy the bounteous one. Therefore I bring forth an utterance for him, so that, taking delight in it, he may hear our newer call, strong with the energy of men.
न । सोमः॑ । इन्द्र॑म् । असु॑तः । म॒मा॒द॒ । न । अब्र॑ह्माणः । म॒घऽवा॑नम् । सु॒तासः॑ । तस्मै॑ । उ॒क्थम् । ज॒न॒ये॒ । यत् । जुजो॑षत् । नृ॒ऽवत् । नवी॑यः । शृ॒णव॑त् । यथा॑ । नः॒ ॥न । सोमः । इन्द्रम् । असुतः । ममाद । न । अब्रह्माणः । मघवानम् । सुतासः । तस्मै । उक्थम् । जनये । यत् । जुजोषत् । नृवत् । नवीयः । शृणवत् । यथा । नः ॥na | somaḥ | indram | asutaḥ | mamāda | na | abrahmāṇaḥ | magha-vānam | sutāsaḥ | tasmai | uktham | janaye | yat | jujoṣat | nṛ-vat | navīyaḥ | śṛṇavat | yathā | naḥ