Sukta 7.25
कुत्सा एते हर्यश्वाय शूषमिन्द्रे सहो देवजूतमियानाः । सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम् ॥
कुत्सा॑ ए॒ते हर्य॑श्वाय शू॒षमिन्द्रे॒ सहो॑ दे॒वजू॑तमिया॒नाः । स॒त्रा कृ॑धि सु॒हना॑ शूर वृ॒त्रा व॒यं तरु॑त्राः सनुयाम॒ वाज॑म् ॥
kútsā eté háryaśvāya śū́ṣam índre sáho deva-jū́tam iyānā́ḥ | satrā́ kṛdhi su-hánā śūra vṛtrā́ vayáṃ tarútrāḥ sanuyā́ma vā́jam ||
These impulses are for the tawny-steeded, for Indra—powers driven by the gods, moving to the might. Make us always good slayers, O hero, of the coverers; that we, overcoming, may win the plenitude of force.
कुत्सा॑ । ए॒ते । हर्यि॑ऽअश्वाय । शू॒षम् । इन्द्रे॑ । सहः॑ । दे॒वऽजू॑तम् । इ॒या॒नाः । स॒त्रा । कृ॒धि॒ । सु॒ऽहना॑ । शू॒र॒ । वृ॒त्रा । व॒यम् । तरु॑त्राः । स॒नु॒या॒म॒ । वाज॑म् ॥कुत्सा । एते । हर्यिअश्वाय । शूषम् । इन्द्रे । सहः । देवजूतम् । इयानाः । सत्रा । कृधि । सुहना । शूर । वृत्रा । वयम् । तरुत्राः । सनुयाम । वाजम् ॥kutsā | ete | haryi-aśvāya | śūṣam | indre | sahaḥ | deva-jūtam | iyānāḥ | satrā | kṛdhi | su-hanā | śūra | vṛtrā | vayam | tarutrāḥ | sanuyāma | vājam