Sukta 7.25
एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम । इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥
ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूर्धि॒ प्र ते॑ म॒हीं सु॑म॒तिं वे॑विदाम । इषं॑ पिन्व म॒घव॑द्भ्यः सु॒वीरां॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
evā na indra vā́ryasya pūrdhi prá te mahī́ṁ su-matíṁ vevidāma | íṣaṁ pinva maghávad-bhyaḥ su-vī́rāṁ yūyáṁ pāta svastí-bhiḥ sádā naḥ ||
So, O Indra, fulfil for us the choicest plenitude; may we win and hold your vast right-mindedness. Increase the impulsion of force for the bountiful seekers, rich in heroic energies; and do you guard us always with states of well-being.
ए॒व । नः॒ । इ॒न्द्र॒ । वार्य॑स्य । पू॒र्धि॒ । प्र । ते॒ । म॒हीम् । सु॒ऽम॒तिम् । वे॒वि॒दा॒म॒ । इष॑म् । पि॒न्व॒ । म॒घव॑त्ऽभ्यः । सु॒ऽवीरा॑म् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एव । नः । इन्द्र । वार्यस्य । पूर्धि । प्र । ते । महीम् । सुमतिम् । वेविदाम । इषम् । पिन्व । मघवत्भ्यः । सुवीराम् । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥eva | naḥ | indra | vāryasya | pūrdhi | pra | te | mahīm | su-matim | vevidāma | iṣam | pinva | maghavat-bhyaḥ | su-vīrām | yūyam | pāta | svasti-bhiḥ | sadā | naḥ