Sukta 7.25
शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु । जहि वधर्वनुषो मर्त्यस्यास्मे द्युम्नमधि रत्नं च धेहि ॥
श॒तं ते॑ शिप्रिन्नू॒तय॑: सु॒दासे॑ स॒हस्रं॒ शंसा॑ उ॒त रा॒तिर॑स्तु । ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्या॒स्मे द्यु॒म्नमधि॒ रत्नं॑ च धेहि ॥
śatáṃ te śiprinn ūtáyaḥ su-dā́se sahásraṃ śáṃsā uta rātír astu | jáhi vádhar vanúṣo mártyasyā́sme dyumnám ádhi rátnam ca dhehi ||
A hundred be thy helps, O Śiprin, for the good giver; a thousand be the words of praise and let there be thy giving. Smite the weapon of the mortal who seeks to wound; and in us set luminous power and the treasure.
श॒तम् । ते॒ । शि॒प्रि॒न् । ऊ॒तयः॑ । सु॒ऽदासे॑ । स॒हस्र॑म् । शंसाः॑ । उ॒त । रा॒तिः । अ॒स्तु॒ । ज॒हि । वधः॑ । व॒नुषः॑ । मर्त्य॑स्य्स् । अ॒स्मे इति॑ । द्यु॒म्नम् । अधि॑ । रत्न॑म् । च॒ । धे॒हि॒ ॥शतम् । ते । शिप्रिन् । ऊतयः । सुदासे । सहस्रम् । शंसाः । उत । रातिः । अस्तु । जहि । वधः । वनुषः । मर्त्यस्य्स् । अस्मे इति । द्युम्नम् । अधि । रत्नम् । च । धेहि ॥śatam | te | śiprin | ūtayaḥ | su-dāse | sahasram | śaṃsāḥ | uta | rātiḥ | astu | jahi | vadhaḥ | vanuṣaḥ | martyasys | asme iti | dyumnam | adhi | ratnam | ca | dhehi