Sukta 7.24
एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि । इन्द्र त्वायमर्क ईट्टे वसूनां दिवीव द्यामधि नः श्रोमतं धाः ॥
ए॒ष स्तोमो॑ म॒ह उ॒ग्राय॒ वाहे॑ धु॒री॒३॒॑वात्यो॒ न वा॒जय॑न्नधायि । इन्द्र॑ त्वा॒यम॒र्क ई॑ट्टे॒ वसू॑नां दि॒वी॑व॒ द्यामधि॑ न॒: श्रोम॑तं धाः ॥
eṣá stómो mahá ugrā́ya vā́he dhurī́v ā́tyo ná vājáyan adhāyi | índra tvā́yam arká ī́ṭṭe vásūnāṃ divī́va dyā́m ádhi naḥ śrómataṃ dhāḥ ||
This hymn is set for the great and formidable, for the bearer—like a yoked steed driving for the plenitude of force it has been established. O Indra, this chant prays to thee for the riches; set for us the hearing that is high as heaven itself, a fame that stands on the luminous plane.
ए॒षः । स्तोमः॑ । म॒हे । उ॒ग्राय॑ । वाहे॑ । धु॒रिऽइ॑व । अत्यः॑ । न । वा॒जय॑न् । अ॒धा॒यि॒ । इन्द्र॑ । त्वा॒ । अ॒यम् । अ॒र्कः । ई॒ट्टे॒ । वसू॑नाम् । दि॒विऽइ॑व । द्याम् । अधि॑ । नः॒ । श्रोम॑तम् । धाः ॥एषः । स्तोमः । महे । उग्राय । वाहे । धुरिइव । अत्यः । न । वाजयन् । अधायि । इन्द्र । त्वा । अयम् । अर्कः । ईट्टे । वसूनाम् । दिविइव । द्याम् । अधि । नः । श्रोमतम् । धाः ॥eṣaḥ | stomaḥ | mahe | ugrāya | vāhe | dhuri-iva | atyaḥ | na | vājayan | adhāyi | indra | tvā | ayam | arkaḥ | īṭe | vasāūnām | divi-iva | dyām | adhi | naḥ | śromatam | dhāḥ