Sukta 7.24
आ नो विश्वाभिरूतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि । वरीवृजत्स्थविरेभिः सुशिप्रास्मे दधद्वृषणं शुष्ममिन्द्र ॥
आ नो॒ विश्वा॑भिरू॒तिभि॑: स॒जोषा॒ ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि । वरी॑वृज॒त्स्थवि॑रेभिः सुशिप्रा॒स्मे दध॒द्वृष॑णं॒ शुष्म॑मिन्द्र ॥
ā no viśvā́bhir ūtíbhiḥ sa-jóṣā bráhma juṣāṇó hary-aśva yāhi | varīvṛ́jat sthavirébhiḥ su-śiprā́sme dádhad vṛ́ṣaṇaṃ śúṣmam indra ||
Come to us with all thy helps in glad accord, O Indra of the tawny steeds, taking delight in the sacred word. Making wide room with the strong ones, O fair-lipped, establish in us the bull-like force, the impetuous might, O Indra.
आ । नः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । स॒ऽजोषाः॑ । ब्रह्म॑ । जु॒षा॒णः । ह॒रि॒ऽअ॒श्व॒ । या॒हि॒ । वरी॑वृजत् । स्थवि॑रेभिः । सु॒ऽशि॒प्र॒ । अ॒स्मे इति॑ । दध॑त् । वृष॑णम् । शुष्म॑म् । इ॒न्द्र॒ ॥आ । नः । विश्वाभिः । ऊतिभिः । सजोषाः । ब्रह्म । जुषाणः । हरिअश्व । याहि । वरीवृजत् । स्थविरेभिः । सुशिप्र । अस्मे इति । दधत् । वृषणम् । शुष्मम् । इन्द्र ॥ā | naḥ | viśvābhiḥ | ūti-bhiḥ | sa-joṣāḥ | brahma | juṣāṇaḥ | hari-aśva | yāhi | varīvṛjat | sthavirebhiḥ | su-śipra | asme iti | dadhat | vṛṣaṇam | śuṣmam | indra