Sukta 7.24
आ नो दिव आ पृथिव्या ऋजीषिन्निदं बर्हिः सोमपेयाय याहि । वहन्तु त्वा हरयो मद्र्यञ्चमाङ्गूषमच्छा तवसं मदाय ॥
आ नो॑ दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन्नि॒दं ब॒र्हिः सो॑म॒पेया॑य याहि । वह॑न्तु त्वा॒ हर॑यो म॒द्र्य॑ञ्चमाङ्गू॒षमच्छा॑ त॒वसं॒ मदा॑य ॥
ā no divá ā pṛthivyā́ ṛjīṣinn idaṃ barhíḥ soma-peyā́ya yāhi | váhantu tvā háryo madryàñcam āṅgūṣám ácchā tavásaṃ mádāya ||
Come to us from heaven and from earth, O Ṛjīṣin; come to this seat of offering for the drinking of Soma. Let thy tawny steeds bear thee hither, to the inspired chant, thee the strong, for the ecstasy.
आ । नः॒ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् । इ॒दम् । ब॒र्हिः । स॒म॒ऽपेया॑य । या॒हि॒ । वह॑न्तु । त्वा॒ । हर॑यः । म॒द्र्य॑ञ्चम् । आ॒ङ्गू॒षम् । अच्छ॑ । त॒वस॑म् । मदा॑य ॥आ । नः । दिवः । आ । पृथिव्याः । ऋजीषिन् । इदम् । बर्हिः । समपेयाय । याहि । वहन्तु । त्वा । हरयः । मद्र्यञ्चम् । आङ्गूषम् । अच्छ । तवसम् । मदाय ॥ā | naḥ | divaḥ | ā | pṛthivyāḥ | ṛjīṣin | idam | barhiḥ | sama-peyāya | yāhi | vahantu | tvā | harayaḥ | madryañcam | āṅgūṣam | accha | tavasam | madāya