Sukta 7.24
गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि । विसृष्टधेना भरते सुवृक्तिरियमिन्द्रं जोहुवती मनीषा ॥
गृ॒भी॒तं ते॒ मन॑ इन्द्र द्वि॒बर्हा॑: सु॒तः सोम॒: परि॑षिक्ता॒ मधू॑नि । विसृ॑ष्टधेना भरते सुवृ॒क्तिरि॒यमिन्द्रं॒ जोहु॑वती मनी॒षा ॥
gṛbhītaṃ te maná indra dvi-barhāḥ sutáḥ sómaḥ pári-siktā mádhūni | visṛ́ṣṭa-dhenā bharate su-vṛ́ktir iyám índraṃ jóhuvatī manīṣā ||
O Indra, thy mind is held and fastened by the Soma pressed with its double strength, its honeyed essences poured all around. This well-fashioned speech, releasing the streams of abundance, bears itself forward—this illumined thought invoking Indra for the rapture and the increase.
गृ॒भी॒तम् । ते॒ । मनः॑ । इ॒न्द्र॒ । द्वि॒ऽबर्हाः॑ । सु॒तः । सोमः॑ । परि॑ऽसिक्ता । मधू॑नि । विसृ॑ष्टऽधेना । भ॒र॒ते॒ । सु॒ऽवृ॒क्तिः । इ॒यम् । इन्द्र॑म् । जोहु॑वती । म॒नी॒षा ॥गृभीतम् । ते । मनः । इन्द्र । द्विबर्हाः । सुतः । सोमः । परिसिक्ता । मधूनि । विसृष्टधेना । भरते । सुवृक्तिः । इयम् । इन्द्रम् । जोहुवती । मनीषा ॥gṛbhītam | te | manaḥ | indra | dvi-barhāḥ | sutaḥ | somaḥ | pari-siktā | madhūni | visṛṣṭa-dhenā | bharate | su-vṛktiḥ | iyam | indram | johuvatī | manīṣā