Sukta 7.24
योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरुहूत प्र याहि । असो यथा नोऽविता वृधे च ददो वसूनि ममदश्च सोमैः ॥
योनि॑ष्ट इन्द्र॒ सद॑ने अकारि॒ तमा नृभि॑: पुरुहूत॒ प्र या॑हि । असो॒ यथा॑ नोऽवि॒ता वृ॒धे च॒ ददो॒ वसू॑नि म॒मद॑श्च॒ सोमै॑: ॥
yóniṣ ṭa indra sádane akāri tám ā́ nṛ́bhiḥ puruhūta prá yāhi | ásō yáthā no'vitā́ vṛ́dhe ca dádō vásūni mámadas ca sómaiḥ ||
A seat, a womb of thy manifestation, is made ready in the dwelling, O Indra; come forth to it with the human powers, O thou of many calls. So mayest thou be our guardian for our growth, giving the riches of being, and taking delight in the Soma-raptures.
योनिः॑ । ते॒ । इ॒न्द्र॒ । सद॑ने । अ॒का॒रि॒ । तम् । आ । नृऽभिः॑ । पु॒रु॒ऽहू॒त॒ । प्र । या॒हि॒ । असः॑ । यथा॑ । नः॒ । अ॒वि॒ता । वृ॒धे । च॒ । ददः॑ । वसू॑नि । म॒मदः॑ । च॒ । सोमैः॑ ॥योनिः । ते । इन्द्र । सदने । अकारि । तम् । आ । नृभिः । पुरुहूत । प्र । याहि । असः । यथा । नः । अविता । वृधे । च । ददः । वसूनि । ममदः । च । सोमैः ॥yoniḥ | te | indra | sadane | akāri | tam | ā | nṛ-bhiḥ | puru-hūta | pra | yāhi | asaḥ | yathā | naḥ | avitā | vṛdhe | ca | dadaḥ | vasūni | mamadaḥ | ca | somaiḥ