Sukta 7.23
ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे । एको देवत्रा दयसे हि मर्तानस्मिञ्छूर सवने मादयस्व ॥
ते त्वा॒ मदा॑ इन्द्र मादयन्तु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे । एको॑ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिञ्छू॑र॒ सव॑ने मादयस्व ॥
té tvā madā́ indra mādayantu śuṣmíṇaṃ tuvi-rā́dhasaṃ jaritré | éko deva-trā́ dáyase hí mártān asmíñ chūra sávane mādayasva ||
May these ecstasies of delight intoxicate thee, O Indra—strong in force, wide in bounty—for the singer. Thou alone in the divine way showest grace to mortals; in this pressing, O hero, take thy joy and increase.
ते । त्वा॒ । मदाः॑ । इ॒न्द्र॒ । मा॒द॒य॒न्तु॒ । शु॒ष्मिण॑म् । तु॒वि॒ऽराध॑सम् । ज॒रि॒त्रे । एकः॑ । दे॒व॒ऽत्रा । दय॑से । हि । मर्ता॑न् । अ॒स्मिन् । शू॒र॒ । सव॑ने । मा॒द॒य॒स्व॒ ॥ते । त्वा । मदाः । इन्द्र । मादयन्तु । शुष्मिणम् । तुविराधसम् । जरित्रे । एकः । देवत्रा । दयसे । हि । मर्तान् । अस्मिन् । शूर । सवने । मादयस्व ॥te | tvā | madāḥ | indra | mādayantu | śuṣmiṇam | tuvi-rādhasam | jaritre | ekaḥ | deva-trā | dayase | hi | martān | asmin | śūra | savane | mādayasva