Sukta 7.23
आपश्चित्पिप्युः स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र । याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान् ॥
आप॑श्चित्पिप्युः स्त॒र्यो॒३॒॑ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र । या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥
ā́paś cit pipyuḥ staryò na gā́vo nákṣann ṛtáṃ jaritā́ras ta indra | yā́hi vāyúr na niyúto no ácchā tváṃ hí dhībhír dáyase ví vājā́n ||
Even the waters have swelled, like lowing cows, reaching the Truth; so have thy praisers, O Indra, arrived at the right law. Come to us like Vāyu with his yoked powers; for by the illumined thoughts thou distributest the plenitudes of force.
आपः॑ । चि॒त् । पि॒प्युः॒ । स्त॒र्यः॑ । न । गावः॑ । नक्ष॑न् । ऋ॒तम् । ज॒रि॒तारः॑ । ते॒ । इ॒न्द्र॒ । या॒हि । वा॒युः । न । नि॒ऽयुतः॑ । नः॒ । अच्छ॑ । त्वम् । हि । धी॒ऽभिः । दय॑से । वि । वाजा॑न् ॥आपः । चित् । पिप्युः । स्तर्यः । न । गावः । नक्षन् । ऋतम् । जरितारः । ते । इन्द्र । याहि । वायुः । न । नियुतः । नः । अच्छ । त्वम् । हि । धीभिः । दयसे । वि । वाजान् ॥āpaḥ | cit | pipyuḥ | staryaḥ | na | gāvaḥ | nakṣan | ṛtam | jaritāraḥ | te | indra | yāhi | vāyuḥ | na | ni-yutaḥ | naḥ | accha | tvam | hi | dhī-bhiḥ | dayase | vi | vājān