Sukta 7.23
एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः । स नः स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥
ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॑र्चन्त्य॒र्कैः । स न॑: स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
evéd índraṃ vṛ́ṣaṇaṃ vájra-bāhuṃ vasiṣṭhā́so abhy àrcanty arkáiḥ | sá naḥ stutó vī́ra-vad dhātu gómad yūyáṃ pāta svastí-bhiḥ sadā́ naḥ ||
Thus do the Vasiṣṭhas chant with hymns to Indra, the Bull, the wielder of the thunder-arm. May he, praised, establish for us the wealth of rays and the wealth of heroic powers; and do you divine guardians protect us always with states of well-being.
ए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् । वसि॑ष्ठासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः । सः । नः॒ । स्तु॒तः । वी॒रऽव॑त् । धातु॑ । गोऽम॑त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥एव । इत् । इन्द्रम् । वृषणम् । वज्रबाहुम् । वसिष्ठासः । अभि । अर्चन्ति । अर्कैः । सः । नः । स्तुतः । वीरवत् । धातु । गोमत् । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥eva | it | indram | vṛṣaṇam | vajra-bāhum | vasiṣṭhāsaḥ | abhi | arcanti | arkaiḥ | saḥ | naḥ | stutaḥ | vīra-vat | dhātu | go--mat | yūyam | pāta | svasti-bhiḥ | sadā | naḥ