Sukta 7.23
युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः । वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥
यु॒जे रथं॑ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः । वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥
yujé ráthaṃ gavéṣaṇaṃ háribhyām úpa bráhmāṇi jujuṣāṇám asthuḥ | ví bādhiṣṭa syá rodasī mahitvéndrò vṛtrā́ṇy apratí jaghánvān ||
For the yoking, the chariot that seeks the Rays is made ready with the two tawny steeds; the mantras stand near, welcoming him. By his greatness he has forced apart the two worlds; Indra, slaying the resistances without equal, has made the way free.
यु॒जे । रथ॑म् । गो॒ऽएष॑णम् । हरि॑ऽभ्याम् । उप॑ । ब्रह्मा॑णि । जु॒जु॒षा॒णम् । अ॒स्थुः॒ । वि । बा॒धि॒ष्ट॒ । स्यः । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा । इन्द्रः॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ज॒घ॒न्वान् ॥युजे । रथम् । गोएषणम् । हरिभ्याम् । उप । ब्रह्माणि । जुजुषाणम् । अस्थुः । वि । बाधिष्ट । स्यः । रोदसी इति । महित्वा । इन्द्रः । वृत्राणि । अप्रति । जघन्वान् ॥yuje | ratham | go--eṣaṇam | hari-bhyām | upa | brahmāṇi | jujuṣāṇam | asthuḥ | vi | bādh iṣṭa | syaḥ | rodasī iti | mahi-tvā | indraḥ | vṛtrāṇi | aprati | jaghanvān