Sukta 7.23
अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि । नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥
अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि । न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥
ayā́mi ghóṣa indra devájāmir irajyánta yác churúdho vivā́ci | náhi svám ā́yuś cikité jáneṣu tā́nīd aṃhā́ṃsy áti parṣy asmā́n ||
I send forth the cry, O Indra, kin of the gods, when the hostile restraints speak apart and confuse. For among men no one truly discerns his own span of life; therefore do thou carry us beyond these constrictions and errors.
अया॑मि । घोषः॑ । इ॒न्द्र॒ । दे॒वऽजा॑मिः । इ॒र॒ज्यन्त॑ । यत् । शु॒रुधः॑ । विऽवा॑चि । न॒हि । स्वम् । आयुः॑ । चि॒कि॒ते । जने॑षु । तानि॑ । इत् । अंहां॑सि । अति॑ । प॒र्षि॒ । अ॒स्मान् ॥अयामि । घोषः । इन्द्र । देवजामिः । इरज्यन्त । यत् । शुरुधः । विवाचि । नहि । स्वम् । आयुः । चिकिते । जनेषु । तानि । इत् । अंहांसि । अति । पर्षि । अस्मान् ॥ayāmi | ghoṣaḥ | indra | deva-jāmiḥ | irajyanta | yat | śurudhaḥ | vi-vāci | nahi | svam | āyuḥ | cikite | janeṣu | tāni | it | aṃhāṃsi | ati | parṣi | asmān