Sukta 7.23
उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ । आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥
उदु॒ ब्रह्मा॑ण्यैरत श्रव॒स्येन्द्रं॑ सम॒र्ये म॑हया वसिष्ठ । आ यो विश्वा॑नि॒ शव॑सा त॒तानो॑पश्रो॒ता म॒ ईव॑तो॒ वचां॑सि ॥
úd u bráhmāṇy airata śravasyéndraṃ samaryé mahayā vasiṣṭha | ā́ yó víśvāni śávasā tatānópaśrótā me ī́vato vácāṃsi ||
Raise up the mantras for the winning of the hearing-glory; magnify Indra in the battle, O Vasiṣṭha. He who has stretched out all things by his force—may he come as the listener to my eager words.
उत् । ऊँ॒ इति॑ । ब्रह्मा॑णि । ऐ॒र॒त॒ । श्र॒व॒स्या । इन्द्र॑म् । स॒ऽम॒र्ये । म॒ह॒य॒ । व॒सि॒ष्ठ॒ । आ । यः । विश्वा॑नि । शव॑सा । त॒तान॑ । उ॒प॒ऽश्रो॒ता । मे॒ । ईव॑तः । वचां॑सि ॥उत् । ऊँ इति । ब्रह्माणि । ऐरत । श्रवस्या । इन्द्रम् । समर्ये । महय । वसिष्ठ । आ । यः । विश्वानि । शवसा । ततान । उपश्रोता । मे । ईवतः । वचांसि ॥ut | oṃ iti | brahmāṇi | airata | śravasyā | indram | sa-marye | mahaya | vasiṣṭha | ā | yaḥ | viśvāni | śavasā | tatāna | upa-śrotā | me | īvataḥ | vacāṃsi