Sukta 7.22
नू चिन्नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र । न वीर्यमिन्द्र ते न राधः ॥
नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवन्ति महि॒मान॑मुग्र । न वी॒र्य॑मिन्द्र ते॒ न राध॑: ॥
nū́ cin nu te mányamānasya dasmó d aśnuvanti mahimā́nam ugra | ná vīryàm indra te ná rā́dhaḥ ||
Even now, O mighty and wonderful one, none can reach the greatness of thee when thou art self-aware in thy will; none attains thy hero-force, none thy plenitude of giving, O Indra.
नु । चि॒त् । नु । ते॒ । मन्य॑मानस्य । द॒स्म॒ । उत् । अ॒श्नु॒व॒न्ति॒ । म॒हि॒मान॑म् । उ॒ग्र॒ । न । वी॒र्य॑म् । इ॒न्द्र॒ । ते॒ । न । राधः॑ ॥नु । चित् । नु । ते । मन्यमानस्य । दस्म । उत् । अश्नुवन्ति । महिमानम् । उग्र । न । वीर्यम् । इन्द्र । ते । न । राधः ॥nu | cit | nu | te | manyamānasya | dasma | ut | aśnuvanti | mahimānam | ugra | na | vīryam | indra | te | na | rādhaḥ