Sukta 7.22
ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः । अस्मे ते सन्तु सख्या शिवानि यूयं पात स्वस्तिभिः सदा नः ॥
ये च॒ पूर्व॒ ऋष॑यो॒ ये च॒ नूत्ना॒ इन्द्र॒ ब्रह्मा॑णि ज॒नय॑न्त॒ विप्रा॑: । अ॒स्मे ते॑ सन्तु स॒ख्या शि॒वानि॑ यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
yé ca pū́rva ṛ́ṣayo yé ca nū́tnā índra bráhmāṇi janáyanta víprāḥ | asmḗ te santu sakhyā́ śivā́ni yūyáṃ pāta svastí-bhiḥ sadā́ naḥ ||
May the friendships of thee be with us—benign and luminous—O Indra, as with the seers of old and the seers of today who bring forth the mantras. Do you powers guard us always with your widenesses of well-being.
ये । च॒ । पूर्वे॑ । ऋष॑यः । ये । च॒ । नूत्नाः॑ । इन्द्र॑ । ब्रह्मा॑णि । ज॒नय॑न्त । विप्राः॑ । अ॒स्मे इति॑ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ये । च । पूर्वे । ऋषयः । ये । च । नूत्नाः । इन्द्र । ब्रह्माणि । जनयन्त । विप्राः । अस्मे इति । ते । सन्तु । सख्या । शिवानि । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥ye | ca | pūrve | ṛṣayaḥ | ye | ca | nūtnāḥ | indra | brahmāṇi | janayanta | viprāḥ | asme iti | te | santu | sakhyā | śivāni | yūyam | pāta | svasti-bhiḥ | sadā | naḥ