Sukta 7.22
तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि । त्वं नृभिर्हव्यो विश्वधासि ॥
तुभ्येदि॒मा सव॑ना शूर॒ विश्वा॒ तुभ्यं॒ ब्रह्मा॑णि॒ वर्ध॑ना कृणोमि । त्वं नृभि॒र्हव्यो॑ वि॒श्वधा॑सि ॥
tubhyéd imā́ savánā śūra víśvā tubhyám bráhmāṇi várdhanā kṛṇomi | tváṃ nṛ-bhír hávyo viśvádhā asi ||
For thee indeed, O hero-power, are all these pressings of delight; for thee I fashion the strengthening words of vision. Thou art the one to be invoked by the human powers, present and effective in every way.
तुभ्य॑ । इत् । इ॒मा । सव॑ना । शू॒र॒ । विश्वा॑ । तुभ्य॑म् । ब्रह्मा॑णि । वर्ध॑ना । कृ॒णो॒मि॒ । त्वम् । नृऽभिः॑ । हव्यः॑ । वि॒श्वधा॑ । अ॒सि॒ ॥तुभ्य । इत् । इमा । सवना । शूर । विश्वा । तुभ्यम् । ब्रह्माणि । वर्धना । कृणोमि । त्वम् । नृभिः । हव्यः । विश्वधा । असि ॥tubhya | it | imā | savanā | śūra | viśvā | tubhyam | brahmāṇi | vardhanā | kṛṇomi | tvam | nṛ-bhiḥ | havyaḥ | viśvadhā | asi