Sukta 7.14
वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र । वयं घृतेनाध्वरस्य होतर्वयं देव हविषा भद्रशोचे ॥
व॒यं ते॑ अग्ने स॒मिधा॑ विधेम व॒यं दा॑शेम सुष्टु॒ती य॑जत्र । व॒यं घृ॒तेना॑ध्वरस्य होतर्व॒यं दे॑व ह॒विषा॑ भद्रशोचे ॥
vayáṃ te agne sam-ídhā vidhema vayáṃ dāśema suṣṭutī́ yajatra | vayáṃ ghṛténa adhvarásya hotar vayáṃ deva havíṣā bhadra-śoce ||
We would kindle thee, O Agni; we would serve thee with right praise, O adorable. We would, O Hotar of the journeying sacrifice, pour the clarified light (ghṛta) for thee; we would offer to thee, O god, with the oblation—O thou of auspicious flame.
व॒यम् । ते॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वि॒धे॒म॒ । व॒यम् । दा॒शे॒म॒ । सु॒ऽस्तु॒ती । य॒ज॒त्र॒ । व॒यम् । घृ॒तेन॑ । अ॒ध्व॒र॒स्य॒ । हो॒तः॒ । व॒यम् । दे॒व॒ । ह॒विषा॑ । भ॒द्र॒ऽशो॒चे॒ ॥वयम् । ते । अग्ने । सम्इधा । विधेम । वयम् । दाशेम । सुस्तुती । यजत्र । वयम् । घृतेन । अध्वरस्य । होतः । वयम् । देव । हविषा । भद्रशोचे ॥vayam | te | agne | sam-idhā | vidhema | vayam | dāśema | su-stutī | yajatra | vayam | ghṛtena | adhvarasya | hotaḥ | vayam | deva | haviṣā | bhadra-śoce