Sukta 7.14
समिधा जातवेदसे देवाय देवहूतिभिः । हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये ॥
स॒मिधा॑ जा॒तवे॑दसे दे॒वाय॑ दे॒वहू॑तिभिः । ह॒विर्भि॑: शु॒क्रशो॑चिषे नम॒स्विनो॑ व॒यं दा॑शेमा॒ग्नये॑ ॥
sam-ídhā jā́ta-vedase devā́ya deva-hū́tibhiḥ | havír-bhiḥ śukrá-śociṣe namasvíno vayáṃ dāśemā́gnaye ||
With the kindling of our being we serve Jātavedas, the divine, by the calls that summon the gods; with our offerings we give to the bright-flaming one. We, full of reverence, would make our giving to Agni.
स॒म्ऽइधा॑ । जा॒तऽवे॑दसे । दे॒वाय॑ । दे॒वऽहू॑तिभिः । ह॒विःऽभिः॑ । शु॒क्रऽशो॑चिषे । न॒म॒स्विनः॑ । व॒यम् । दा॒शे॒म॒ । अ॒ग्नये॑ ॥सम्इधा । जातवेदसे । देवाय । देवहूतिभिः । हविःभिः । शुक्रशोचिषे । नमस्विनः । वयम् । दाशेम । अग्नये ॥sam-idhā | jāta-vedase | devāya | deva-hūtibhiḥ | haviḥ-bhiḥ | śukra-śociṣe | namasvinaḥ | vayam | dāśema | agnaye