Sukta 7.14
आ नो देवेभिरुप देवहूतिमग्ने याहि वषट्कृतिं जुषाणः । तुभ्यं देवाय दाशतः स्याम यूयं पात स्वस्तिभिः सदा नः ॥
आ नो॑ दे॒वेभि॒रुप॑ दे॒वहू॑ति॒मग्ने॑ या॒हि वष॑ट्कृतिं जुषा॒णः । तुभ्यं॑ दे॒वाय॒ दाश॑तः स्याम यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
ā́ no devébhir úpa deva-hū́tim agne yā́hi vaṣaṭ-kṛtíṃ juṣāṇáḥ | túbhyaṃ devā́ya dā́śataḥ syāma yūyáṃ pāta svastí-bhiḥ sadā́ naḥ ||
Come to us with the gods to our god-summoning call, O Agni; taking delight in the cry that seals the offering (vaṣaṭ). May we be givers to thee, the divine; and may you guard us always with states of well-being.
आ । नः॒ । दे॒वेभिः॑ । उप॑ । दे॒वऽहू॑तिम् । अग्ने॑ । या॒हि । वष॑ट्ऽकृतिम् । जु॒षा॒णः । तुभ्य॑म् । दे॒वाय॑ । दाश॑तः । स्या॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥आ । नः । देवेभिः । उप । देवहूतिम् । अग्ने । याहि । वषट्कृतिम् । जुषाणः । तुभ्यम् । देवाय । दाशतः । स्याम । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥ā | naḥ | devebhiḥ | upa | deva-hūtim | agne | yāhi | vaṣaṭ-kṛtim | juṣāṇaḥ | tubhyam | devāya | dāśataḥ | syāma | yūyam | pāta | svasti-bhiḥ | sadā | naḥ