Sukta 7.11
अग्निरीशे बृहतो अध्वरस्याग्निर्विश्वस्य हविषः कृतस्य । क्रतुं ह्यस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् ॥
अ॒ग्निरी॑शे बृह॒तो अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्य ह॒विष॑: कृ॒तस्य॑ । क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षन्ताथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥
agnír īśe bṛható adhvarásyāgnír víśvasya havíṣaḥ kṛtásya | kratúṃ hí asya vásavo juṣantā́thā devā́ dadhire havya-vā́ham ||
Agni rules over the vast sacrifice; Agni is lord of every prepared offering. For the Vasus accept his will and working; therefore the gods established him as the bearer of the oblation.
अ॒ग्निः । ई॒शे॒ । बृ॒ह॒तः । अ॒ध्व॒रस्य॑ । अ॒ग्निः । विश्व॑स्य । ह॒विषः॑ । कृ॒तस्य॑ । क्रतु॑म् । हि । अ॒स्य॒ । वस॑वः । जु॒षन्त॑ । अथ॑ । दे॒वाः । द॒धि॒रे॒ । ह॒व्य॒ऽवाह॑म् ॥अग्निः । ईशे । बृहतः । अध्वरस्य । अग्निः । विश्वस्य । हविषः । कृतस्य । क्रतुम् । हि । अस्य । वसवः । जुषन्त । अथ । देवाः । दधिरे । हव्यवाहम् ॥agniḥ | īśe | bṛhataḥ | adhvarasya | agniḥ | viśvasya | haviṣaḥ | kṛtasya | kratum | hi | asya | vasavaḥ | juṣanta | atha | devāḥ | dadhire | havya-vāham