Sukta 7.11
आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम् । इमं यज्ञं दिवि देवेषु धेहि यूयं पात स्वस्तिभिः सदा नः ॥
आग्ने॑ वह हवि॒रद्या॑य दे॒वानिन्द्र॑ज्येष्ठास इ॒ह मा॑दयन्ताम् । इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
ā́gne vaha havír adyā̀ya devā́n índra-jyeṣṭhāsa ihá mādayantām | imáṃ yajñáṃ diví devéṣu dhehi yūyáṃ pāta svastíbhiḥ sádā naḥ ||
O Agni, bring the gods for today’s offering; let the powers with Indra as the foremost take their joy here. Set this sacrifice in heaven among the gods; and you, protect us always with your harmonies of well-being.
आ । अ॒ग्ने॒ । व॒ह॒ । ह॒विः॒ऽअद्या॑य । दे॒वान् । इन्द्र॑ऽज्येष्ठासः । इ॒ह । मा॒द॒य॒न्ता॒म् । इ॒मम् । य॒ज्ञम् । दि॒वि । दे॒वेषु॑ । धे॒हि॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥आ । अग्ने । वह । हविःअद्याय । देवान् । इन्द्रज्येष्ठासः । इह । मादयन्ताम् । इमम् । यज्ञम् । दिवि । देवेषु । धेहि । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥ā | agne | vaha | haviḥ-adyāya | devān | indra-jyeṣṭhāsaḥ | iha | mādayantām | imam | yajñam | divi | deveṣu | dhehi | yūyam | pāta | svasti-bhiḥ | sadā | naḥ