Sukta 7.11
त्रिश्चिदक्तोः प्र चिकितुर्वसूनि त्वे अन्तर्दाशुषे मर्त्याय । मनुष्वदग्न इह यक्षि देवान्भवा नो दूतो अभिशस्तिपावा ॥
त्रिश्चि॑द॒क्तोः प्र चि॑कितु॒र्वसू॑नि॒ त्वे अ॒न्तर्दा॒शुषे॒ मर्त्या॑य । म॒नु॒ष्वद॑ग्न इ॒ह य॑क्षि दे॒वान्भवा॑ नो दू॒तो अ॑भिशस्ति॒पावा॑ ॥
tríś cid aktóḥ prá cikitúr vásūni tvé antár dāśúṣe mártyāya | manuṣvád agna ihá yákṣi devā́n bhávā no dūtó abhiśastí-pāvā ||
Even thrice in the night your riches awaken into clear knowledge within you for the mortal who gives. O Agni, in the human way sacrifice here to the gods; become our messenger, a purifier who wards off the hostile word and its harm.
त्रिः । चि॒त् । अ॒क्तोः । प्र । चि॒कि॒तुः॒ । वसू॑नि । त्वे इति॑ । अ॒न्तः । दा॒शुषे॑ । मर्त्या॑य । म॒नु॒ष्वत् । अ॒ग्ने॒ । इ॒ह । य॒क्षि॒ । दे॒वान् । भव॑ । नः॒ । दू॒तः । अ॒भि॒श॒स्ति॒ऽपावा॑ ॥त्रिः । चित् । अक्तोः । प्र । चिकितुः । वसूनि । त्वे इति । अन्तः । दाशुषे । मर्त्याय । मनुष्वत् । अग्ने । इह । यक्षि । देवान् । भव । नः । दूतः । अभिशस्तिपावा ॥triḥ | cit | aktoḥ | pra | cikituḥ | vasūni | tve iti | antaḥ | dāśuṣe | martyāya | manuṣvat | agne | iha | yakṣi | devān | bhava | naḥ | dūtaḥ | abhiśasti-pāvā