Sukta 7.11
त्वामीळते अजिरं दूत्याय हविष्मन्तः सदमिन्मानुषासः । यस्य देवैरासदो बर्हिरग्नेऽहान्यस्मै सुदिना भवन्ति ॥
त्वामी॑ळते अजि॒रं दू॒त्या॑य ह॒विष्म॑न्त॒: सद॒मिन्मानु॑षासः । यस्य॑ दे॒वैरास॑दो ब॒र्हिर॒ग्नेऽहा॑न्यस्मै सु॒दिना॑ भवन्ति ॥
tvā́m īḷate ajiráṃ dūtyā̀ya havíṣmantaḥ sádamin mā́nuṣāsaḥ | yásya deváir ā́sado bárhir agné ’hā́ny asmai sudínā bhavanti ||
The human offerers, rich in oblation, ever adore you, the swift one, for the work of the messenger. He for whom, O Agni, the sacred seat is taken by the gods—his days become days of a good light and right going.
त्वाम् । ई॒ळ॒ते॒ । अ॒जि॒रम् । दू॒त्या॑य । ह॒विष्म॑न्तः । सद॑म् । इत् । मानु॑षासः । यस्य॑ । दे॒वैः । आ । अस॑दः । ब॒र्हिः । अ॒ग्ने॒ । अहा॑नि । अ॒स्मै॒ । सु॒ऽदिना॑ । भ॒व॒न्ति॒ ॥त्वाम् । ईळते । अजिरम् । दूत्याय । हविष्मन्तः । सदम् । इत् । मानुषासः । यस्य । देवैः । आ । असदः । बर्हिः । अग्ने । अहानि । अस्मै । सुदिना । भवन्ति ॥tvām | īḷate | ajiram | dūtyāya | haviṣmantaḥ | sadam | it | mānuṣāsaḥ | yasya | devaiḥ | ā | asadaḥ | barhiḥ | agne | ahāni | asmai | su-dinā | bhavanti