Sukta 7.11
महाँ अस्यध्वरस्य प्रकेतो न ऋते त्वदमृता मादयन्ते । आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता प्रथमः सदेह ॥
म॒हाँ अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता॑ मादयन्ते । आ विश्वे॑भिः स॒रथं॑ याहि दे॒वैर्न्य॑ग्ने॒ होता॑ प्रथ॒मः स॑दे॒ह ॥
mahā́m asyádhvarásya praketó ná ṛté tvád amṛ́tā mādayante | ā́ víśvebhiḥ sárathaṃ yāhi deváir ní agne hótā prathamáḥ sádehá ||
O Agni, you are the vast discerning consciousness of this sacrifice; without you the immortal Powers do not enter into their delight. Come here with all the gods in one accord and on one chariot; sit down here as the first priest, the forerunner of the offering.
म॒हान् । अ॒सि॒ । अ॒ध्व॒रस्य॑ । प्र॒ऽके॒तः । न । ऋ॒ते । त्वत् । अ॒मृताः॑ । मा॒द॒य॒न्ते॒ । आ । विश्वे॑भिः । स॒रथ॑म् । या॒हि॒ । दे॒वैः । नि । अ॒ग्ने॒ । होता॑ । प्र॒थ॒मः । स॒द॒ । इ॒ह ॥महान् । असि । अध्वरस्य । प्रकेतः । न । ऋते । त्वत् । अमृताः । मादयन्ते । आ । विश्वेभिः । सरथम् । याहि । देवैः । नि । अग्ने । होता । प्रथमः । सद । इह ॥mahān | asi | adhvarasya | pra-ketaḥ | na | ṛte | tvat | amṛtāḥ | mādayante | ā | v iśvebhiḥ | saratham | yāhi | devaiḥ | ni | agne | hotā | prathamaḥ | sada | iha