Sukta 7.103
देवहितिं जुगुपुर्द्वादशस्य ऋतुं नरो न प्र मिनन्त्येते । संवत्सरे प्रावृष्यागतायां तप्ता घर्मा अश्नुवते विसर्गम् ॥
दे॒वहि॑तिं जुगुपुर्द्वाद॒शस्य॑ ऋ॒तुं नरो॒ न प्र मि॑नन्त्ये॒ते । सं॒व॒त्स॒रे प्रा॒वृष्याग॑तायां त॒प्ता घ॒र्मा अ॑श्नुवते विस॒र्गम् ॥
deváhitiṃ jugupur dvādaśásya ṛtúṃ náro ná prá mínanty eté | saṃvatsaré prāvṛ́ṣy ā́gatāyāṃ taptā́ gharmā́ aśnuvate visargám ||
They guard the god-ordained arrangement; these do not violate the season of the twelvefold cycle. When, in the year, the monsoon has arrived, the heated forces attain release: the pent-up energies are let go in the right time.
दे॒वऽहि॑तिम् । जु॒गु॒पुः॒ । द्वा॒द॒शस्य॑ । ऋ॒तुम् । नरः॑ । न । प्र । मि॒न॒न्ति॒ । ए॒ते । स॒व्ँम्व॒त्स॒रे । प्रा॒वृषि॑ । आऽग॑तायाम् । त॒प्ताः । घ॒र्माः । अ॒श्नु॒व॒ते॒ । वि॒ऽस॒र्गम् ॥देवहितिम् । जुगुपुः । द्वादशस्य । ऋतुम् । नरः । न । प्र । मिनन्ति । एते । सव्ँम्वत्सरे । प्रावृषि । आगतायाम् । तप्ताः । घर्माः । अश्नुवते । विसर्गम् ॥deva-hitim | jugupuḥ | dvādaśasya | ṛtum | naraḥ | na | pra | minanti | ete | saṃvatsare | prāvṛṣi | āgatāyām | taptāḥ | gharmāḥ | aśnuvate | vi-sargam