Sukta 7.103
ब्राह्मणासः सोमिनो वाचमक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम् । अध्वर्यवो घर्मिणः सिष्विदाना आविर्भवन्ति गुह्या न के चित् ॥
ब्रा॒ह्म॒णास॑: सो॒मिनो॒ वाच॑मक्रत॒ ब्रह्म॑ कृ॒ण्वन्त॑: परिवत्स॒रीण॑म् । अ॒ध्व॒र्यवो॑ घ॒र्मिण॑: सिष्विदा॒ना आ॒विर्भ॑वन्ति॒ गुह्या॒ न के चि॑त् ॥
brāhmaṇā́saḥ sómino vā́cam akrata bráhma kṛṇvántaḥ parivatsarī́ṇam | adhvaryávo gharmíṇaḥ sisvidānā́ āvír bhavanti guhyā́ ná ké cit ||
The Soma-bearers make speech; making brahman that belongs to the whole turning year. The Adhvaryus, heated with the inner fire and sweating with effort, become manifest—though hidden before from all: so the concealed powers emerge when the season of inspiration arrives.
ब्रा॒ह्म॒णासः॑ । सो॒मिनः॑ । वाच॑म् । अ॒क्र॒त॒ । ब्रह्म॑ । कृ॒ण्वन्तः॑ । प॒रि॒व॒त्स॒रीण॑म् । अ॒ध्व॒र्यवः॑ । घ॒र्मिणः॑ । सि॒स्वि॒दा॒नाः । आ॒विः । भ॒व॒न्ति॒ । गुह्याः॑ । न । के । चि॒त् ॥ब्राह्मणासः । सोमिनः । वाचम् । अक्रत । ब्रह्म । कृण्वन्तः । परिवत्सरीणम् । अध्वर्यवः । घर्मिणः । सिस्विदानाः । आविः । भवन्ति । गुह्याः । न । के । चित् ॥brāhmaṇāsaḥ | sominaḥ | vācam | akrata | brahma | kṛṇvantaḥ | parivatsarīṇam | adhvaryavaḥ | gharmiṇaḥ | sisvidānāḥ | āviḥ | bhavanti | guhyāḥ | na | ke | c it