Sukta 7.103
ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः । संवत्सरस्य तदहः परि ष्ठ यन्मण्डूकाः प्रावृषीणं बभूव ॥
ब्रा॒ह्म॒णासो॑ अतिरा॒त्रे न सोमे॒ सरो॒ न पू॒र्णम॒भितो॒ वद॑न्तः । सं॒व॒त्स॒रस्य॒ तदह॒: परि॑ ष्ठ॒ यन्म॑ण्डूकाः प्रावृ॒षीणं॑ ब॒भूव॑ ॥
brāhmaṇā́so atirātré ná sóme sáro ná pūrṇám abhíto vádantaḥ | saṃvatsarásya tád áhar pári ṣṭha yán maṇḍūkāḥ prāvṛṣī́ṇaṃ babhū́va ||
Like brahmins at the Atirātra, like a lake full, they speak all around; that day marks the turning of the year when the frogs become ‘of the rains’: the rite of Time opens again and speech returns into its circle.
ब्रा॒ह्म॒णासः॑ । अ॒ति॒ऽरा॒त्रे । न । सोमे॑ । सरः॑ । न । पू॒र्णम् । अ॒भितः॑ । वद॑न्तः । स॒व्ँम्व॒त्स॒रस्य॑ । तत् । अह॒रिति॑ । परि॑ । स्थ॒ । यत् । म॒ण्डू॒काः॒ । प्रा॒वृ॒षीण॑म् । ब॒भूव॑ ॥ब्राह्मणासः । अतिरात्रे । न । सोमे । सरः । न । पूर्णम् । अभितः । वदन्तः । सव्ँम्वत्सरस्य । तत् । अहरिति । परि । स्थ । यत् । मण्डूकाः । प्रावृषीणम् । बभूव ॥brāhmaṇāsaḥ | ati-rātre | na | some | saraḥ | na | pūrṇam | abhitaḥ | vadantaḥ | saṃvatsarasya | tat | ahariti | pari | stha | yat | maṇḍūkāḥ | prāvṛṣīṇam | babhūva