Sukta 7.103
गोमायुरेको अजमायुरेकः पृश्निरेको हरित एक एषाम् । समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचं पिपिशुर्वदन्तः ॥
गोमा॑यु॒रेको॑ अ॒जमा॑यु॒रेक॒: पृश्नि॒रेको॒ हरि॑त॒ एक॑ एषाम् । स॒मा॒नं नाम॒ बिभ्र॑तो॒ विरू॑पाः पुरु॒त्रा वाचं॑ पिपिशु॒र्वद॑न्तः ॥
gomā́yur éko ajamā́yur ékaḥ pṛ́śnir éko hárta éka eṣām | samānáṃ nā́ma bíbhrato vírūpāḥ purutrā́ vā́caṃ pipiśúr vádantaḥ ||
One has the ‘cow-cry’, one the ‘goat-cry’, one is speckled, one tawny; yet bearing one common name, though of many forms, they fashion speech in many ways while they speak—diverse energies expressing a single power.
गोऽमा॑युः । एकः॑ । अ॒जऽमा॑युः । एकः॑ । पृश्निः॑ । एकः॑ । हरि॑तः । एकः॑ । ए॒षा॒म् । स॒मा॒नम् । नाम॑ । बिभ्र॑तः । विऽरू॑पाः । पु॒रु॒ऽत्र । वाच॑म् । पि॒पि॒शुः॒ । वद॑न्तः ॥गोमायुः । एकः । अजमायुः । एकः । पृश्निः । एकः । हरितः । एकः । एषाम् । समानम् । नाम । बिभ्रतः । विरूपाः । पुरुत्र । वाचम् । पिपिशुः । वदन्तः ॥go--māyuḥ | ekaḥ | aja-māyuḥ | ekaḥ | pṛśniḥ | ekaḥ | haritaḥ | ekaḥ | eṣām | samānam | nāma | bibhrataḥ | vi-rūpāḥ | puru-tra | vācam | pipiśuḥ | vadantaḥ