Sukta 7.103
यदेषामन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः । सर्वं तदेषां समृधेव पर्व यत्सुवाचो वदथनाध्यप्सु ॥
यदे॑षाम॒न्यो अ॒न्यस्य॒ वाचं॑ शा॒क्तस्ये॑व॒ वद॑ति॒ शिक्ष॑माणः । सर्वं॒ तदे॑षां स॒मृधे॑व॒ पर्व॒ यत्सु॒वाचो॒ वद॑थ॒नाध्य॒प्सु ॥
yád eṣām anyó anyásya vā́caṃ śāktásyeva vádati śíkṣamāṇaḥ | sárvaṃ tád eṣāṃ samṛ́dheva párva yát su-vā́co vádathana ádhy apsú ||
When one repeats the other’s speech, learning it like a skilled reciter, that whole exchange becomes for them a joint ‘festival-step’ of increase—because, well-speaking, you utter upon the Waters: speech founded on the flow grows into plenitude.
यत् । ए॒षा॒म् । अ॒न्यः । अ॒न्यस्य॑ । वाच॑म् । शा॒क्तस्य॑ऽइव । वद॑ति । शिक्ष॑माणः । सर्व॑म् । तत् । ए॒षा॒म् । स॒मृधा॑ऽइव । पर्व॑ । यत् । सु॒ऽवाचः॑ । वद॑थन । अधि॑ । अ॒प्ऽसु ॥यत् । एषाम् । अन्यः । अन्यस्य । वाचम् । शाक्तस्यइव । वदति । शिक्षमाणः । सर्वम् । तत् । एषाम् । समृधाइव । पर्व । यत् । सुवाचः । वदथन । अधि । अप्सु ॥yat | eṣām | anyaḥ | anyasya | vācam | śāktasya-iva | vadati | śikṣamāṇaḥ | sarvam | tat | eṣām | samṛdhāiva | parva | yat | su-vācaḥ | vadathana | adhi | ap-su