Sukta 7.103
अन्यो अन्यमनु गृभ्णात्येनोरपां प्रसर्गे यदमन्दिषाताम् । मण्डूको यदभिवृष्टः कनिष्कन्पृश्निः सम्पृङ्क्ते हरितेन वाचम् ॥
अ॒न्यो अ॒न्यमनु॑ गृभ्णात्येनोर॒पां प्र॑स॒र्गे यदम॑न्दिषाताम् । म॒ण्डूको॒ यद॒भिवृ॑ष्ट॒: कनि॑ष्क॒न्पृश्नि॑: सम्पृ॒ङ्क्ते हरि॑तेन॒ वाच॑म् ॥
anyó anyám ánu gṛbhṇāty enor apā́ṃ prá-sarge yád amándiṣātām | maṇḍūkó yád abhí-vṛṣṭáḥ kániṣkan pṛ́śniḥ sam-pṛṅkté hártena vā́cam ||
Each seizes on the other in the outflow of the Waters when they are exhilarated; and when the frog is rained upon, leaping again and again, the speckled one blends his voice with the tawny one—many tones joining into one awakened speech.
अ॒न्यः । अ॒न्यम् । अनु॑ । गृ॒भ्णा॒ति॒ । ए॒नोः॒ । अ॒पाम् । प्र॒ऽस॒र्गे । यत् । अम॑न्दिषाताम् । म॒ण्डूकः॑ । यत् । अ॒भिऽवृ॑ष्टः । कनि॑स्कन् । पृश्निः॑ । स॒म्ऽपृ॒ङ्क्ते । हरि॑तेन । वाच॑म् ॥अन्यः । अन्यम् । अनु । गृभ्णाति । एनोः । अपाम् । प्रसर्गे । यत् । अमन्दिषाताम् । मण्डूकः । यत् । अभिवृष्टः । कनिस्कन् । पृश्निः । सम्पृङ्क्ते । हरितेन । वाचम् ॥anyaḥ | anyam | anu | gṛbhṇāti | enoḥ | apām | pra-sarge | yat | amandiṣātām | maṇḍūkaḥ | yat | abhi-vṛṣṭaḥ | kaniskan | pṛśniḥ | sam-pṛṅkte | haritena | vācam