Sukta 7.103
यदीमेनाँ उशतो अभ्यवर्षीत्तृष्यावतः प्रावृष्यागतायाम् । अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यमुप वदन्तमेति ॥
यदी॑मेनाँ उश॒तो अ॒भ्यव॑र्षीत्तृ॒ष्याव॑तः प्रा॒वृष्याग॑तायाम् । अ॒ख्ख॒ली॒कृत्या॑ पि॒तरं॒ न पु॒त्रो अ॒न्यो अ॒न्यमुप॒ वद॑न्तमेति ॥
yádīm enā́m̐ uśató abhyàvarṣīt tṛṣyā́vataḥ prāvṛ́ṣy ā́gatāyām | akhkhalīkṛ́tyā pitáraṃ ná putró anyó anyám úpa vádantam eti ||
When the rain poured upon these yearning ones at the coming of the monsoon, then—stammering into utterance—one goes to another speaking, as a son to a father: the re-born speech seeks its source and learns again its rhythms.
यत् । ई॒म् । ए॒ना॒न् । उ॒श॒तः । अ॒भि । अव॑र्षीत् । तृ॒ष्याऽव॑तः । प्रा॒वृषि॑ । आऽग॑तायाम् । अ॒ख्ख॒ली॒कृत्य॑ । पि॒तर॑म् । न । पु॒त्रः । अ॒न्यः । अ॒न्यम् । उप॑ । वद॑न्तम् । ए॒ति॒ ॥यत् । ईम् । एनान् । उशतः । अभि । अवर्षीत् । तृष्यावतः । प्रावृषि । आगतायाम् । अख्खलीकृत्य । पितरम् । न । पुत्रः । अन्यः । अन्यम् । उप । वदन्तम् । एति ॥yat | īm | enān | uśataḥ | abhi | avarṣīt | tṛṣyāvataḥ | prāvṛṣi | āgatāyām | akhkhalīkṛtya | pitaram | na | putraḥ | anyaḥ | anyam | upa | vadantam | eti