Sukta 7.103
दिव्या आपो अभि यदेनमायन्दृतिं न शुष्कं सरसी शयानम् । गवामह न मायुर्वत्सिनीनां मण्डूकानां वग्नुरत्रा समेति ॥
दि॒व्या आपो॑ अ॒भि यदे॑न॒माय॒न्दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम् । गवा॒मह॒ न मा॒युर्व॒त्सिनी॑नां म॒ण्डूका॑नां व॒ग्नुरत्रा॒ समे॑ति ॥
divyā́ ā́paḥ abhí yád enam ā́yan dṛtíṃ ná śúṣkaṃ sarasī́ śáyānam | gavā́m áha ná māyúr vatsínīnām maṇḍūkā́nāṃ vagnúr atrā́ sámeti ||
When the luminous Waters came upon him, lying like a dried skin in the lake-bed, then the cry of the frogs gathers here together—like the lowing of cows with calves—awakening the dormant life-forces into a common movement.
दि॒व्याः । आपः॑ । अ॒भि । यत् । ए॒न॒म् । आय॑न् । दृति॑म् । न । शुष्क॑म् । स॒र॒सी इति॑ । शया॑नम् । गवा॑म् । अह॑ । न । मा॒युः । व॒त्सिनी॑नाम् । म॒ण्डूका॑नाम् । व॒ग्नुः । अत्र॑ । सम् । ए॒ति॒ ॥दिव्याः । आपः । अभि । यत् । एनम् । आयन् । दृतिम् । न । शुष्कम् । सरसी इति । शयानम् । गवाम् । अह । न । मायुः । वत्सिनीनाम् । मण्डूकानाम् । वग्नुः । अत्र । सम् । एति ॥divyāḥ | āpaḥ | abhi | yat | enam | āyan | dṛtim | na | śuṣkam | sarasī iti | śayānam | gavām | aha | na | māyuḥ | vatsinīnām | maṇḍūkānām | vagnuḥ | atra | sam | eti