Sukta 7.103
संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः । वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥
सं॒व॒त्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिण॑: । वाचं॑ प॒र्जन्य॑जिन्वितां॒ प्र म॒ण्डूका॑ अवादिषुः ॥
saṃvatsaráṃ śaśayānā́ brāhmaṇā́ vrata-cā́riṇaḥ | vā́caṃ parjányajinvitāṃ prá maṇḍūkā avādiṣuḥ ||
For a year they lay silent—brahmans, keepers of the vow; then, stirred by Parjanya, the frogs spoke forth the Word.
स॒व्ँम्व॒त्स॒रम् । श॒श॒या॒नाः । ब्रा॒ह्म॒णाः । व्र॒त॒ऽचा॒रिणः॑ । वाच॑म् । प॒र्जन्य॑ऽजिन्विताम् । प्र । म॒ण्डूकाः॑ । अ॒वा॒दि॒षुः ॥सव्ँम्वत्सरम् । शशयानाः । ब्राह्मणाः । व्रतचारिणः । वाचम् । पर्जन्यजिन्विताम् । प्र । मण्डूकाः । अवादिषुः ॥saṃvatsaram | śaśayānāḥ | brāhmaṇāḥ | vrata-cāriṇaḥ | vācam | parjanya-jinvitām | pra | maṇḍūkāḥ | avādiṣuḥ