Sukta 7.101
इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तज्जुजोषत् । मयोभुवो वृष्टयः सन्त्वस्मे सुपिप्पला ओषधीर्देवगोपाः ॥
इ॒दं वच॑: प॒र्जन्या॑य स्व॒राजे॑ हृ॒दो अ॒स्त्वन्त॑रं॒ तज्जु॑जोषत् । म॒यो॒भुवो॑ वृ॒ष्टय॑: सन्त्व॒स्मे सु॑पिप्प॒ला ओष॑धीर्दे॒वगो॑पाः ॥
idáṃ vácaḥ parjányāya svárāje hṛdó astv ántaraṃ tát jujoṣat | mayobhúvo vṛ́ṣṭayaḥ santu asmé su-pippalā́ óṣadhīr devágopāḥ ||
This word is for Parjanya, the self-king: let it be within the heart; may he accept it. May the rains that bring delight be for us; may the plants be well-fruited, guarded by the gods.
इ॒दम् । वचः॑ । प॒र्जन्या॑य । स्व॒ऽराजे॑ । हृ॒दः । अ॒स्तु॒ । अन्त॑रम् । तत् । जु॒जो॒ष॒त् । म॒यः॒ऽभुवः॑ । वृ॒ष्टयः॑ । स॒न्तु॒ । अ॒स्मे इति॑ । सु॒ऽपि॒प्प॒लाः । ओष॑धीः । दे॒वऽगो॑पाः ॥इदम् । वचः । पर्जन्याय । स्वराजे । हृदः । अस्तु । अन्तरम् । तत् । जुजोषत् । मयःभुवः । वृष्टयः । सन्तु । अस्मे इति । सुपिप्पलाः । ओषधीः । देवगोपाः ॥idam | vacaḥ | parjanyāya | sva-rāje | hṛdaḥ | astu | antaram | tat | jujoṣat | mayaḥ-bhuvaḥ | vṛṣṭayaḥ | santu | asme iti | su-pippalāḥ | oṣadhīḥ | deva-gopāḥ