Sukta 7.101
यस्मिन्विश्वानि भुवनानि तस्थुस्तिस्रो द्यावस्त्रेधा सस्रुरापः । त्रयः कोशास उपसेचनासो मध्वः श्चोतन्त्यभितो विरप्शम् ॥
यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रे॒धा स॒स्रुराप॑: । त्रय॒: कोशा॑स उप॒सेच॑नासो॒ मध्व॑: श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥
yásmin víśvāni bhúvanāni tasthús tisró dyā́vas tredhā́ sasrúr ā́paḥ | tráyaḥ kóśāsa upá-secanāso mádhvaḥ ścotanty abhíto virapśám ||
In whom all the worlds are set firm; the three heavens, and the waters run in a triple way. Three vessels, for pouring near, drip sweetness on every side upon the broad-form.
यस्मि॑न् । विश्वा॑नि । भुव॑नानि । त॒स्थुः । ति॒स्रः । द्यावः॑ । त्रे॒धा । स॒सुः । आपः॑ । त्रयः॑ । कोशा॑सः । उ॒प॒ऽसेच॑नासः । मध्वः॑ । श्चो॒त॒न्ति॒ । अ॒भितः॑ । वि॒ऽर॒प्शम् ॥यस्मिन् । विश्वानि । भुवनानि । तस्थुः । तिस्रः । द्यावः । त्रेधा । ससुः । आपः । त्रयः । कोशासः । उपसेचनासः । मध्वः । श्चोतन्ति । अभितः । विरप्शम् ॥yasmin | viśvāni | bhuvanāni | tasthuḥ | tisraḥ | dyāvaḥ | tredhā | sasuḥ | āpaḥ | trayaḥ | kośāsaḥ | upa-secanāsaḥ | madhvaḥ | ścotanti | abhitaḥ | vi-rapśam