Sukta 7.101
स रेतोधा वृषभः शश्वतीनां तस्मिन्नात्मा जगतस्तस्थुषश्च । तन्म ऋतं पातु शतशारदाय यूयं पात स्वस्तिभिः सदा नः ॥
स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनां॒ तस्मि॑न्ना॒त्मा जग॑तस्त॒स्थुष॑श्च । तन्म॑ ऋ॒तं पा॑तु श॒तशा॑रदाय यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
sá retodhā́ vṛṣabháḥ śáśvatīnām tásminn ātmā́ jágatas tásthuṣaś ca | tán ma ṛtáṃ pātu śatá-śāradāya yūyáṃ pāta svastíbhiḥ sádā naḥ ||
He, the seed-holder, the Bull of the eternities; in him is the self of all that moves and stands. May that R̥ta protect me for a hundred autumns; and may you protect us always with your harmonies.
सः । रे॒तः॒ऽधाः । वृ॒ष॒भः । शश्व॑तीनाम् । तस्मि॑न् । आ॒त्मा । जग॑तः । तु॒स्थुषः॑ । च॒ । तत् । मा॒ । ऋ॒तम् । पा॒तु॒ । श॒तऽशा॑रदाय । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥सः । रेतःधाः । वृषभः । शश्वतीनाम् । तस्मिन् । आत्मा । जगतः । तुस्थुषः । च । तत् । मा । ऋतम् । पातु । शतशारदाय । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥saḥ | retaḥ-dhāḥ | vṛṣabhaḥ | śaśvatīnām | tasmin | ātmā | jagataḥ | tusthuṣaḥ | ca | tat | mā | ṛtam | pātu | śata-śāradāya | yūyam | pāta | svasti-bhiḥ | sadā | naḥ