Sukta 7.101
यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे । स त्रिधातु शरणं शर्म यंसत्त्रिवर्तु ज्योतिः स्वभिष्ट्यस्मे ॥
यो वर्ध॑न॒ ओष॑धीनां॒ यो अ॒पां यो विश्व॑स्य॒ जग॑तो दे॒व ईशे॑ । स त्रि॒धातु॑ शर॒णं शर्म॑ यंसत्त्रि॒वर्तु॒ ज्योति॑: स्वभि॒ष्ट्य१॒॑स्मे ॥
yó várdhana óṣadhīnām yó apā́ṃ yó víśvasya jágato devá ī́śe | sá tridhā́tu śaraṇáṃ śárma yaṃsat trivártu jyótiḥ sv-abhiṣṭy àsmé ||
He who is the increaser of the plants, who is lord of the waters, who as a god rules all that moves—may he grant us the threefold-founded refuge and bliss; may he set in us the Light that turns in three movements, the good attainment.
यः । वर्ध॑नः । ओष॑धीनाम् । यः । अ॒पाम् । यः । विश्व॑स्य । जग॑तः । दे॒वः । ईशे॑ । सः । त्रि॒ऽधातु॑ । श॒र॒णम् । शर्म॑ । यं॒स॒त् । त्रि॒ऽवर्तु॑ । ज्योतिः॑ । सु॒ऽअ॒भि॒ष्टि । अ॒स्मे इति॑ ॥यः । वर्धनः । ओषधीनाम् । यः । अपाम् । यः । विश्वस्य । जगतः । देवः । ईशे । सः । त्रिधातु । शरणम् । शर्म । यंसत् । त्रिवर्तु । ज्योतिः । सुअभिष्टि । अस्मे इति ॥yaḥ | vardhanaḥ | oṣadhīnām | yaḥ | apām | yaḥ | viśvasya | jagataḥ | devaḥ | īśe | saḥ | tri-dhātu | śaraṇam | śarma | yaṃsat | tri-vartu | jyotiḥ | su-abhiṣṭi | asme iti