Sukta 7.101
तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद्दुह्रे मधुदोघमूधः । स वत्सं कृण्वन्गर्भमोषधीनां सद्यो जातो वृषभो रोरवीति ॥
ति॒स्रो वाच॒: प्र व॑द॒ ज्योति॑रग्रा॒ या ए॒तद्दु॒ह्रे म॑धुदो॒घमूध॑: । स व॒त्सं कृ॒ण्वन्गर्भ॒मोष॑धीनां स॒द्यो जा॒तो वृ॑ष॒भो रो॑रवीति ॥
tisró vā́caḥ prá vada jyótir-agrā yā́ etád duhré mádhu-dogham ū́dhaḥ | sá vatsáṃ kṛṇván gárbham óṣadhīnām sadyó jātó vṛṣabhó roravīti ||
Utter forth the threefold Word, whose front is Light; they milk from this the honey-yielding udder. He, the Bull, newly born, at once makes the calf that is the embryo of the plants, and he bellows.
ति॒स्रः । वाचः॑ । प्र । व॒द॒ । ज्योतिः॑ऽअग्राः । याः । ए॒तत् । दु॒ह्रे । म॒धु॒ऽदो॒घम् । ऊधः॑ । सः । व॒त्सम् । कृ॒ण्वन् । गर्भ॑म् । ओष॑धीनाम् । स॒द्यः । जा॒तः । वृ॒ष॒भः । रो॒र॒वी॒ति॒ ॥तिस्रः । वाचः । प्र । वद । ज्योतिःअग्राः । याः । एतत् । दुह्रे । मधुदोघम् । ऊधः । सः । वत्सम् । कृण्वन् । गर्भम् । ओषधीनाम् । सद्यः । जातः । वृषभः । रोरवीति ॥tisraḥ | vācaḥ | pra | vada | jyotiḥ-agrāḥ | yāḥ | etat | duhre | madhu-dogham | ūdhaḥ | saḥ | vatsam | kṛṇvan | garbham | oṣadhīnām | sadyaḥ | jātaḥ | vṛṣabhaḥ | roravīti